________________
षष्ठः काण्डः।
पीतनीले तु पालाशः पलाशो हरितो हरिः। लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥ पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ । . श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥१८॥ . धूम्रोऽथ कङ्घरश्चित्रः चित्रलोऽपि कल्माषवत् । कल्मासश्च, भवेत् शब्दो निखानो निःस्वनः स्वनः॥१९॥ खनिः खानो ध्वनिर्ध्वानो निकाणो निक्कणः क्वणः काणश्च घोष-निर्घोषौ निहाँदो हाद इत्यपि ॥ २० ॥ निनादो निनदो नाद आरावो राव आरवः । रवो विरावः सरावः, क्ष्वेडा वेडित-वेलिते ॥ २१ ॥ भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् हेषा, गर्जस्तु गर्जया ॥२२॥ हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवो । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे ॥२३॥ रेषण-रेषे, तन्त्र्यास्तु प्रकाणः प्रकणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥ काकली काकलिवन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥ चक्रवालं चडवाडं चक्रं च चय-संचयौ। शण्ड-षण्डौ, केदाराणां गणे कैदारकं मतम् ॥ २६ ॥ कैदारिकं कैदार्य च, केशानां कैश्य-कैशिके। अश्वीयमाश्वमश्वानाम, वातूलो वात्यया सह ॥२७॥