________________
शब्दरत्नाकरेघोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥३४९॥ मौकुलिर्मोकुलः काके, वनकाके तु द्रोणवत् । द्रोणकाकः, निशाटे तु कौशिकः कुशिकेऽपि च॥३५०॥ कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वर्क-चक्रतः । हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥ धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा । . वारटा वरटा तद्वत् वरटी, खञ्जनः पुनः ॥ ३५२ ॥ खञ्जरीटः, सारसे तु लक्ष्मणो लक्षणोऽपि च । । सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह ॥ ३५३ ॥ क्रौञ्चे क्रुङ् शत्त्रि-शकी च क्रौञ्च्यां क्रुङ् क्रुचया समं । चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ॥३५४॥ किकिः किकीः किकिदिविः दैविः, शकुनिभिद्यथ । वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥३५५॥ कटुक्काणे टिट्टिभः स्यात् टीटिभश्चटके पुनः । कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६ ॥ स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि । जलरङ्कौ जलरञ्जः कालोत्कण्टक-कण्ठगौ ॥ ३५७ ॥ दात्यूहश्व सदात्योहः, कढे बक-बुको समौ । बकोटोऽपि, बलाकायां कण्टिका-कण्ठिके बिसात्॥३५८॥ १ वक्र-चक्राभ्यां परोऽङ्कशब्दः, वक्राङ्कः, चक्राङ्क इति । २ कालशब्दात् परौ कण्टक-कण्ठगशब्दौ, कालकण्टकः, कालकण्ठग इति ।
३ बिसशब्दात् कण्टिका-कण्ठिकाशब्दौ योज्यौ, बिसकण्टिका, बिसकठिकति ।