________________
चतुर्थः काण्डः। चिल्ले आतापिरातापी आतायी नान्तकावुभौ । कामायौ तु गृध्र-गृत्सौ दाक्षाय्यश्च दक्षाय्यवत्॥३५९॥ रामाश्रिते जटायुनोंदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥३६०॥ गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ट्यां वल्गुली स्मृता॥३६१॥ वल्गुलिका, कर्करटौ करेटुः कर्कराटुकः । करटुः कर्करेटोऽथाटिराडिश्व शरातिवत् ॥ ३६२ ॥ आतिः शरारिः शलालिः कृकण-क्रकरावुभौ । कपिञ्जले, भास-भाषौ शकुम्भे, रक्तलोचने ॥ ३६३ ॥ पारापतः पारावतः पारपतः कपोतवत् । कपोदः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत्॥३६४॥ व्याघ्राटे तु भरद्वाजो भारद्वाजश्व, तित्तिरः । तित्तिरिः खरकोणे हौ, मरुले कारण्ड इष्यते ॥३६५॥ कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारश्च शक्लीव शकली मता ॥ ३६६ ॥ शम्बरो दन्त्यतालव्यो वादालश्व वदालवत् । . सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥ शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः। चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् ॥३६८॥ शालः सालश्व, नके तु कुम्भी कुम्भीर इत्यपि । १ पुंलिङ्गः, उकारान्तश्चेत्यर्थः ।