________________
चतुर्थः काण्डः। भुजगः सर्प-सूौ च सरीसृपश्च गूढपाद् ॥ ३३८ ॥ गूढपदो व्याल-व्याडावुरङ्गश्चोरगस्तथा । अजगरे शयथुश्च शयालुः स्यात् शयातु षण् ॥३३९॥ शयुर्जलसर्प तु स्यादलीगर्दोऽलगर्दयुक् । अलगोऽलीगर्दोऽपि राजिलाऽहौ तु डुण्डुभः ॥३४॥ दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलिसिके । गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे ॥३४१॥ मालुधानोऽहिदंष्ट्रायामाश्यां-शीर्भोगके फटः । स्फटौ हौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दर्विवत्॥३४२॥ दर्वी च कञ्चुके निर्खयनी निर्लयनीयुता। पक्षिणी पत्त्री पतत्त्री नकारान्ताविदन्तकौ ॥३४३॥ पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः । विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४॥ सशकुन्तः शकुन्तिश्च शकुनिः शकुनः स्मृतः। वकीरो विकिरश्चापि विष्कीरश्च सृपाटिका ॥ ३४५ ॥ स्मृपाटी चञ्चुश्चञ्चूवत् नोटिस्त्रोटी, तनूरूहे । पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ॥३४६॥ पक्ष नान्तं पक्षः सान्तं दे षण्ढे च, नभोगतौ । प्रडीनो-ड्डीन-संडीन-डयनान्यथ चाण्डके ॥ ३४७ ॥ पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके । केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥ बहीं च बहिणः शिखाबलः शिखी, पिके पुनः ।