________________
शब्दरत्नाकरे
सतालव्यौ च, पृषत् पृषतो बिलशायिनि ॥ ३२७॥ कन्दली नन्तो ङयन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य - रिश्यौ च सम्मतौ ॥३२८॥ ऋष्य-रिप्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् ॥ २२९ ॥ अमि पुंसि वातप्रमीं शसि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् ॥ ३३० ॥ स्त्रियामीदन्तं लक्ष्मीवद् ङीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः ॥२३१॥ तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥ ३३२ ॥ गोधेर - गोधारौ, पल्यां गृहोली गृहगोलिका । गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् ॥३३३॥ अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कुकुलासः सरटः सरडस्तथा ॥ ३३४ ॥ सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः । शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च३३५ उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका ।
"
मूषा च गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥ ३३६॥ ओतौ बिडालो बिलालो दरुटो दरुडान्वितः । हो ह्रीको ह्रीकुह्लकुर्लज्जालौ नकुलोऽपि च ॥३३७॥ मार्जालीयश्च मार्जारो हौ भुजङ्गो भुजङ्गमः ।
८०