________________
७७
चतुर्थः काण्डः।
७७ शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः । अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥ वेणुकं वैणुकम् , दन्त्यतालव्यादिः शृणिर्मतः । अङ्कुशे, तदनेऽपष्ठं कौद् द्वादशाऽक्षरान्तिमम् ॥२९॥ वीते वातं यतं चोक्ते, वरत्रायां सया पया। कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥ अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि । वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत्॥२९८॥ वामी-वनायुजा-वानायुजा-वाल्हीका-वाल्हिकाः । पुच्छे लङ्गुलं लाङ्गुलं गतिभेदे तु धौरितम् ॥२९९॥ धौरितकं धोरणं च धौर्य स्यान्मुखयन्त्रणे । खलीनं खलिन-कवी कविका कवियं कविः॥ ३०० ॥ सन्नाहेऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके । रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥३०१॥ वेसरो वेसरादश्वायां जाते, मुकयस्तथा । मुकुयो द्वौ मृगभेदे, गर्दभ्यश्वतरात्मजे ॥३०२॥ अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः।। दाशेरकः सदाशेरः, उक्षिण शक्कर-शाकरौ ॥३०३॥ शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ । शण्डे षण्डोऽपीडरः स्यादिवरः, विद्धनासिके ॥ ३०४ ॥ नस्योतो नस्तितो नस्तोतः स-ठौ प्रेष्ठ-पष्ठतः।
१ ठकारान्तमित्यर्थः । २ प्रष्ठ-षष्ठशब्दाभ्यां परो 'वाट्' शब्दः, प्रष्ठकाइ, पष्ठवाडिति ।