________________
शब्दरत्नाकरे
वाड्, दमयो जितहलवोट्रोरेकधुरावहे || ३०५ || एकधुरीणैकधुरौ, धूर्वहे तु धुरन्धरः । धूरणधुर्य धौरेया धौरेयकोऽथ पृष्ठ के || ३०६ || स्थैौरी स्थूरी स्थूली, षोडः षोडन् षोडत इत्यपि । षड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् ॥ ३०७ ॥ स्त्रीचिह्ने शैला श्रेष्ठेऽपि यमन्तिमम् । नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥ ३०८॥ / शृङ्गं शृगः शृङ्गिः शृङ्गी विषाणोक्ता विषाण्यपि । विषाणं विषाणो गव्यां गौईयोरनु हो । ३०९ ॥ अनुड्डाही तम्पा तम्बा माहेयी सह माहया । स्रवद्गर्भा ववतोका एतोका चोत्तमा च गौः ॥ ३१०॥ नैचिकी निचिकी नीचिकी नीचीक्यऽप्यऽकोपना । सूरता सुरता सूरथा सुरथाऽथ गोकुले || ३११ ॥ गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्वितः । पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२॥ बन्धने संदानोदाने दामा-दाम-दामो- द्दितम् । संदितं संदानितेऽजे छगलः छागवत् छगः ॥३१३॥ स्तभ - स्तुभौ युवाजे तु बर्करो बर्करी तथा । बर्करम्, मेषे तु हुडुर्हुडोऽप्युरण ऊरणः ॥ ३१४ ॥ वडूटो वरुटस्तद् वरूडो वरुडोऽपि च । भरूडो भरुडोऽप्युक्तो भरूटोऽस्थ्याशे कुक्करः ॥ ३१५॥ कुर्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः ।
७८