________________
७६
शब्दरत्नाकरे
तन्त्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः । मर्कटको जालिकश्च जालकारकवत् कृमिः ॥ २८४ ॥ क्रिमिवृश्चिकेऽलि-राल्य-लालिद्रोणो द्रुणो द्रुतः । भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥२८५॥ शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यऽपि । : मधुरस्त्री मधूलं च, माक्षिके वरूटी पुनः ॥ २८६॥ . वरटाऽपि च, गन्धोल्यां वर्षकर्या तु चीरिका ।। . चीरी चरुका चिरुका झीरुका झिल्लीकायुता ॥२८७॥ झिल्लो झिल्लिका झिलिका विलेपनमले तथा। आतपस्य रुच्यपि च, श्वापदे व्याड-व्यालकौ ॥ २८८॥ द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतंगजः। करी करिर्दन्ताबलो दन्ती पेचकिपेचिलौ ॥ २८९ ॥ हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् । । नार्यामपि कणेरुश्व गणेरुरपि तद् द्वयम् ॥ २९० ॥ वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीबिभीभयोः। . विंशतिवर्षेभे विक्कः, पिक्कोऽपि त्रिंशदब्दके ॥ २९१ ॥ कलभः कडभश्च द्वौ उद्दान्तोपात्तको समौ । निर्मदे राजबाह्ये त्यौपवाह्यश्वोपवाह्यवत् ॥ २९२॥ हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः । तन्मूले तु करीरीवत्करीरिर्नेत्रगोलके ॥ २९३ ॥ .. ईषिका स्यादिषीकेवेभगण्डे करटः कटः। गजपश्चिमभागे लपरावदऽवरोदिता ॥ २९४ ॥