________________
चतुर्थः काण्डः।
७५
दर्भः कुशः कुसो मुझे शरस्तालव्यदन्त्यभाक् । दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥ नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः । इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥२७४॥ कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया। . : यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥ मालातृणं भ्रूस्तृणं च, विषे तु गर-सङ्गरौ। गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥ पर्यन्तवने खोकण्युकणी, कीटे कृमिः क्रिमिः। ... लाक्षायामपि तद्भेदे नीलामुश्व नीलङ्गुवत् ॥ २७७॥ गण्डूपदे किञ्चुलकः किञ्चुलुकोऽपि संमतः । जलसार्पण्यां जलूका जलौका च जलौकसः ॥२७॥ स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः । पुंस्यदन्तो जलायुकाऽस्रपाऽऽबन्ता विजन्तकः ॥२७९॥ अम्बुमात्रजशवे तु शम्बुः शम्बूश्च शम्बुकः । शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥ हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता । दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि ॥२८॥ पिपीलके पीलकोऽपि, क्षुद्रजन्तौ तु धान्यजे । कणाटीनः कटाटीनः स्याद् युकाण्डे तु लिक्षया ॥२८२॥ रिक्षोदंशे कोलकणो मत्कुणोत्कुणकावपि । इन्द्रगोपे लिन्द्ररजोऽग्निकोऽथ तन्तुवायके ॥ २८३ ॥