________________
शब्दरत्नाकरे
जीवन्ती जीवनीया च जीवा स्यात्, क्षारपत्रके । : शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥२६२॥ चङ्गेय स्यादम्ललोना लोणिका चाऽम्ललोणिका । अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलकः || २६३ ॥ खरपुष्पायां कबरी बर्बरा बर्बरी तथा । वृन्ताके वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् ॥ २६४॥ वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी । दुष्प्रधर्षणीच, शतपर्णायां तु कलम्बिका ॥ २६५ ॥ कलम्बूच, पालने तु छत्रा - छत्रा - ऽतिछत्रवत् । अतिछत्रस्तिक्तके तु पटोलः पटुवत् स्मृतः ॥ २६६ ॥ पुष्करमूले पौष्करं पुष्करं मूलमित्यपि । भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तमः || २६७ ॥ भृङ्गरजश्च सान्तोऽपि षर्बजे चाऽपि मूर्धजे । दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि ॥ २६८ ॥ सुषवी सुरावी कर्कारौ कूष्माण्डो विदां मतः । कुष्माण्डोऽपि च कूष्माण्डी, पटोल्यां तु कोशातकी ॥ २६९ ॥ कोषातकी च, कर्कट्यां स्यादीवरुरिर्वारुवत् । ऊर्वारुरुवरुरपि एर्वारुचिर्मिटी तथा ॥ २७० ॥ चिर्भिटं चिर्भिटस्तद्वत् वालुङ्कः स्याद् वालुक्यपि । पुषी पुसी पुषं त्रिपुषं च मेऽर्शसः ॥ २७१ ॥ शूरणों दन्त्यतालव्यादिमः, बालतृणे पुनः । शस्यं स्याद्दन्त्यमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् ॥ २७२॥
१ अर्शोघ्ने, इत्याकूतम् ।
७४