________________
चतुर्थः काण्डः।
७३
आशुव्रीहिः कलमस्तु कडमश्च कलामकः । . मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥ मसूरा मसुराऽप्येते वेश्यायामपि वाईयः। कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥२५२॥ सतीलक-सातीलकौ त्रिकटोऽङ्कट इत्यपि । चणके हरिमन्थः स्याद् हरिमन्थज इत्यपि ॥ २५३ ॥ मुद्ने हरिः सहरितस्तुम्बरस्तु वनोद्भवे । राजमुद्रे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥२५४॥ मुकुष्ठक-मयष्ठको वर्गाद्याप्तौ स-ठान्तिमः। मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥२५५॥ जघन्यत्रीहौ श्यामाकः श्यामकः पीततण्डुला । कङ्गु-
क्व गू कङ्गुनी च कङ्कुश्व, कोरदूषके ॥२५६।। कोद्रवः कुद्रवोऽप्युक्तः, युगन्धर्या तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥२५७॥ भङ्गायाम्, गवेधुकायां गवीधुका गवेधुवत् । गवेडुश्व, तिलापिञ्जपेजौ षण्ढतिले युभौ ॥ २५८ ॥ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके । कविशं कणिशोऽफलकाण्डे पल-पलालकौ ॥२५९॥ कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥
मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका । - तुण्डिका तुण्डिकेरी च, मधुस्रवायां तु जीवनी ॥२६॥ .. १......--