________________
शब्दरत्नाकरेअजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि ॥२१८॥ झिण्ट्यां सैरेयश्च सैरीयकः सहचरान्वितः । सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका ॥२१९॥ कुरुबकः कुरुण्टकः सहाचरः सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका ॥२२०॥ मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥२२१॥ मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर. इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥२२२॥ काष्ठिकापि बलायां स्याद् नागबलायां तु हे पुनः । गङ्गेष्ठिका गङ्गेरुका महाबलायां संगता ॥२२३॥ सहदेवी देवसहा हिङ्गपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता ॥ २२४ ॥ बाष्पीका पृथु-पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ। मयूरो लोचतः ख्यातो मस्तको मर्कटोऽपिच ॥ २२५॥ श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवल्ली शारिवावद् भवेदुत्पलशारिवा ॥ २२६ ॥ चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी-नल्यौ ग्रन्थिपणेशुकं मतम् ॥ २२७ ॥ शुकबह बर्हिःपुष्पं पुष्पं स्पृकौषधौ पुनः । कोटीवर्षा कोटिवर्षा कोटिौला मरुधुता ॥२२८॥...