________________
चतुर्थः काण्डः ।
मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्ध्या । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि ॥ २२९॥ दन्त्यां मकूलक - मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिल्लव काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् २३० रोचनी रेचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा ॥२३१॥ मांसिगन्धद्रव्ये मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥२३२॥ जतूका जतोः का कार्यौ जतुकृच्चातिविषा पुनः । विषी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥२३३॥ त्रिपुटी त्रिपुटा प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी ॥ २३४ ॥ सहदेव्यां सहदेवः सहदेवश्व कथ्यते । मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी ॥ २३५|| भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा ॥ २३६ ॥ चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं मन्धमूलिका ॥ २३७॥ शटी पटी च कर्चूरः कर्चूरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका ॥ २३८ ॥ दन्त्य-तालव्याद्याथाखुपय चित्रोपचित्रया । ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥२३९॥
;
७१