________________
चतुर्थः काण्डः ।
वराङ्गकं वराङ्गं च स्यादेलायां तु निष्कटिः । निष्टा स्थूलैलायां तु कथिता त्रिपुटा पुटा ॥ २०८॥ कर्कटशृङ्गयां शृङ्गी च कृष्णाभेट्यां कटंवरा । कटुकी कटुकश्वापि अशोका रोहिणीयुता ॥ २०९ ॥ अशोकरोहिणी दारुहरिद्रायां कालेयकः । कालीको गालवे तु रोध - लोधौ च सावरः ॥२१० ॥ तालव्य-दन्त्यपूर्वः स्यात्, तद्भेदे यन्त-नान्तगः । पट्टी फणिज्जके तु स्याद् मरुबक - मरूबकौ ॥ २११ ॥ रक्ताम्राते कुरुबकः सोकारानुकाररकः । महासहायामम्लातो म्लातको म्लान इत्यपि ॥ २१२ ॥ अमिलातकेऽपि दुरालभायां तु यवासकः । यवास-यवाषौ यासो धन्वयासोऽपि संमतः ॥ २१३ ॥ धन्वयवासको धन्वयासो रोदनी बोधनी । मोरटायां मूर्ख मूर्ती वा सुवाऽपामार्गके ॥ २१४॥ खराद् मञ्जरि-मञ्जर्यौ भाय हिञ्जी च फञ्जिका । ब्राह्मणी ब्राह्मणाद्या स्याद् यष्टिकाथ किरातकः॥२१५॥ किरातो है कुष्ठे तु वर्ग्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि ॥ २१६ ॥ शतरुषा शतारुश्च सन्तोऽथो कत्पले पुनः । काफलं कट्फलस्तद्वत् केटर: कैटर्स तथा ॥ २१७॥
.१ उकारसहितः, अनुकारश्च रकारो यस्मिन् कुरुबकः, कुरबकश्चेत्यर्थः ।
६९