________________
शब्दरत्नाकरे
लयमृणाला-मृणाले अवदाहेष्टकापथम् । इष्टकापथावदाही बालके वाल इष्यते ॥ १९७ ॥ हीवेरं हिरिवैरं च दद्रुघ्ने तु प्रपन्नटः। प्रपुन्नाटश्च प्रातुन्नाटकः पद्माट इत्यपि ॥ १९८ ॥ प्रपुन्नाडः प्रपुनाड उरणा-क्षोरणाख्यको। शिरीषे भण्डी भण्डीरो भण्डिरो भण्डिलोऽपि च ॥१९९॥ जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे । जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणकौ ॥२०॥ स्योनाकः कुटन्नटवद् नटोऽथ चिरजीवकः ।। जीवको मधुरकश्व मधुरः कूर्चशीर्षके ॥ २०१ ।। कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा । नागकेसरे केसरो नागः स्याद् मदनद्रुमे ॥ २०२॥ पिण्डी पिण्डीतकः कटहलद्रौ पनसः स्मृतः । फनसः पणसो भल्लातके रुष्वोऽप्यरुक्करः ॥ २०३ ॥ पिच्छिलायां शाल्मलिः स्याच्छल्मलिः शाल्मलोऽपि च । प्लीहशत्रौ रोहितको सरोहितक-रोहितौ ॥ २०४॥ रोही खदिरे गायत्री नन्तो यतश्व कथ्यते । पुण्डरीके तु पुण्डर्य प्रपुण्डरीकमित्यपि ॥ २०५ ॥ कतके कतोऽपि केशहन्त्र्या शमिः शमीति च । हखा शमीरुः शमीरस्तूते तूदं तुदं तथा ॥ २०६॥ मधुयष्टयां यष्टिमधु यष्टीमधुकमादृतम् । यष्टिर्मधुकं वपत्रे गुडलक लक त्वचं तथा ॥२०७॥
ai..