________________
प्रथमः सर्गः। धैर्य भज महाराज ! प्रतीकारोऽस्ति पाप्मनः ।। 'मालिनस्यापि वस्त्रस्य शोधकं वारि किं नहि।। ७७ ॥ शुद्धिर्जायत एवास्य पापस्यापि प्रथीयसः ! ददासि राज्यं यद्यमै दानं हन्ति हि दुर्नयम् ॥७८॥ सोल्लासमिव राज्ञोचे प्रसन्नोऽस्म्युपदेशतः । भवानङ्गारवक्त्रोऽपि सुधावत्रो ममाभवत् ।। ७९ ॥ सकोशग्रामनगरा भूरियं वार्धिमेखला। तुभ्यं दत्ता तत्प्रसीदेत्युत्वा भूपोऽनमन्मुनिम् ॥ ८० ॥ प्रणत्यामारवक्त्रोऽपि तमवादीत् कृताञ्जलिः । अयं यदाभधत्ते राट् प्रतिपद्यख तत्तथा ।। ८१ ॥ एवंमस्त्विति भाषित्वा स साक्षेपमदोऽवदत् । अद्यप्रभृति धात्रीयं धात्रीव ध्यायतां त्वया ।। ८२ ॥ अथाभ्यधाद् धराधीशो धरा दत्तैव तेऽधुना । प्रतिभूरत्र कौटिल्यो भूमिदाने विचिन्तय ॥ ८३ ॥ अथ विज्ञपयामासं कोऽपि शिष्यो महामुनिम् । न तपो न जपस्तावद्यावदस्ति मृता मृगी ॥ ८४ ॥ सखेदं सोऽप्यभाषिष्ट कारयानलसंस्कृतिम् । वचनोचे मया साकमेतस्याः सा भविष्यति ।। ८५ ॥ उवाच विनयाद्राजा वचने ! दुर्नयं मम । सहस्खैकं महाभागे ! सार्दाऽसि नतदहिषु ॥८६॥ अहं तुभ्यं प्रदास्यामि स्वर्णलक्षं सुलक्षणे! । आमेत्युवाच सा यद्वा किं न स्यादानकर्मणा ? ||८७॥ महर्षिः प्राह मे याहि पुरी लक्ष्मीविकस्वराम् । सन्ध्याकृत्यं विधायाशु पश्येते वयमागताः।। ८८ ॥ एवमाकर्ण्य निर्वर्ण्य तं मुनिं क्षितिनायकः । सतोराजन्यमूर्द्धन्योऽयोध्यां पाप निजां पुरीम् ।।८९॥