________________
२२
मल्लिनाथमहाकाव्ये
यतः-विनेमा हरिणी बालवयस्यामिव मत्सुता।
विप्रनक्ष्यति पश्चान्मे नूनं पत्नी विपत्स्यते ॥६५॥ विना प्राणपियामेनां कुतो मे स्यात्तपोविधिः । विना तपोविधिं क्व स्याद् ब्राह्मण्यमनघं मम ॥६६॥ अहो ! अन्याय ईदृक्षः क्षमिणामपि दुःसहः। यन्मृगी मृगयाऽन्धेन हता केनापि पापिना ? ॥६७॥ एवं विषादमापन्नोऽवादीत् कुलपतिस्ततः । ज्ञात्वा कुतोऽपि भूपाल ! ससाध्यः पितृवैरिवत् ॥६८॥ इतोऽभ्यधान मुनेः पुत्री सास्त्रं जनक ! सत्वरम् । प्रगुणीकुरु मद्योग्यां चितां वह्निसमाचिताम् ।। ६९ ॥ किं न वेत्सि मृगीमेनां विना मे जीवितं कुतः । पश्चादपि हि यत् कृत्यं तत् पूर्व किं न तन्यते ॥७०॥ अथ सास्रं नृपः प्रोचे दुष्कृत्यन्यञ्चदाननः । शिक्षा कास्मि सर्वेषां नात्मनो निन्द्यकर्मणः ॥७॥ तच्छ्रुत्वा स मुनिः स्माह यथार्थः क्षत्रियो भवान् । सत्यार्थेयं त्वया चक्रे नितरां प्राकृतश्रुतिः ॥ ७२ ॥ निर्मिता शस्यरक्षार्थे वृत्तिः क्षेत्रे कृषीवलैः। सा चेदत्तितरां शस्यं कस्य पूत कुर्महे पुरः ।। ७३ ॥ प्रणिपत्य मुनेः पादौ राजावादीनयान्वितम् । क्षमस्वेदं ममागस्त्वं क्षमाधरशिरोमणे ! ॥ ७४ ॥ श्रृंत्वेत्याख्यत् कुलपतिर्ममापसर दृक्पथात् । आः पाप ! कौलटरोऽसि रे रे क्षत्रियपांशन ! ॥७५।। अथाङ्गारमुखोऽवादीन्मा रुषो वदतांवर!।
नैवापमानमुर्वीशः सोढुं परिवृढस्तव ।। ७६ ॥ (१) सहस्व मन्तुमेकं मे सन्तो यन्नतवत्सलाः इत्यपि । (२) मुनिः पराङ्मुखीभूय चुक्रोश क्षितिनायकम् इत्यपि।