________________
प्रथमः सर्गः...
दुर्भगोपि दरिद्रोऽपि सदाधिव्याधिमानपि । ....... पराश्रयाभिभूतोऽपि प्राणी प्राणितुमिच्छति ॥ ५२ ।। इयतः कल्मषाच्छुद्धिः कथं मम भविष्यति । विना मुनीन् शमध्यानतत्परान् भवतारकान् ।। ५३ ।। विमृश्यति दयानिनो विरक्तः पापवर्त्मनः । प्राविक्षदाश्रमं पद्भयां सखिभ्यांसह भूपतिः ॥ ५४।। ततः कुलपतिं दृष्ट्वा ननाम जगतीपतिः । न्यधात्पृष्ठे करकोडमुच्चरन्नाशिष स च ।। ५५ ॥ हर्षालवालकलितः फलितः सुकृतद्रुमः। यौष्माकं दर्शनं यन्मे जातमित्यूचिवान्नृपः ।। ५६ । मुनिः प्राह महीपाल ! वयमद्य जगत्यपि । धन्या येन भवान् दृष्टः पञ्चमो लोकपालकः॥ ५७ ।। अस्मिन्नवसरे तत्र बहुलस्तुमुलोऽभवत् । अब्रह्मण्यमब्रह्मण्यमिति ध्वानभयङ्करः ॥ ५८ ॥ उत्कौँ मुनिभूमीन्द्रौ सिंहनस्तद्विपाविव । जातावगण्यकारुण्यस्ससंसिक्तमानसौ ॥ ५९ ॥ ततस्तारतरं सासू रुदतीं सुदतीं भृशम् । .. सुवत्सां वश्चनां स्नेहादनुयान्तीं शनैः शनैः॥ ६० ॥ रक्ष रक्षाश्रमगुरो ! निर्नाथामिव मामिति । जल्पन्तीं निकृति भार्यामपश्यत्स्वां तपोधनः॥६१॥ (युग्मम्) ऋषिः पुत्री निरीक्ष्योच कथं रोदिषि बालिके!। साऽवोचत्तात ! केनापि सखी मम मृगी हता॥६२ ॥ सास्रं कुलपतिः प्राह या किलासीत् प्रजावती । एकं मृगीवधोऽन्यच्च भ्रूणहत्या वचोऽतिगा ॥ ६३ ॥ कोपाक्रान्तः पुनः प्राह हृदयस्फोटकृद्वचः । अरे रे ! तेन दुष्टेन कृतोऽस्माकं कुलक्षयः ॥ ६४ ॥