________________
मल्लिनाथमहाकाव्येअकस्मात्परमस्माकं ज्ञानध्यानवतां भयम्। संवृत्तं येन नि था इव स्मः क्षितिनायक ! ॥३९॥ कुतोऽप्यभ्येत्य भीमास्यः कोलः काल इवापरः । बभञ्जास्मद्रुमान्पुत्रानिव संवर्द्धितान् स्वयम् ॥ ४० ॥ चकतं च लताः क्रोधात् मूर्ती अस्मत्क्रिया इव । यज्ञानिव कुशावासानालवालान्ममर्द च ॥ ४१ ॥ आश्रमाणां पुराणां च त्राता येन त्वमेव भोः । इति तस्मिन्वदत्येव राजोचे धीरया गिरा ॥ ४२ ॥ एष हन्मि दुरात्मानं कोडं कुल्यं विरोधिवत् । एवं प्रत्यशृणोद्धीरो मुनिश्वाय तिरोदधे ॥ ४३ ॥ अथ प्रातः स कृत्यानि कृत्वा सेनापरीतः। मनोजवमिवारुह्य वाजिनं निर्ययौ ततः ॥ ४४ ॥ कचित्पान्थैः कृतस्नानां कचित् यूपैश्च दन्तुराम् । कचित्सन्ध्याविधिव्यग्रद्विजलोकसमाकुलाम् ॥ ४५ ॥ कल्लोलक्रीडगान् हंसान् क्रीडयन्तीं सुतानिव ।। वीक्षांचक्रे क्षमाधीशः सरयू सरिदुत्तमाम् ॥४६॥ (युग्मम्) राजा पप्रच्छ पार्श्वस्थौ कपिञ्जलकपिङ्गलौ । क क्रोडः पोचतुस्तौ तु स्वामिन्नेष पुरस्थितः ॥४७॥ स क्रोडस्तद्वचः श्रुत्वा शौर्यचर्यातरङ्गितः। संमुखीनोऽभवत्तस्य वादीव प्रतिवादिनः ॥ ४८ ॥ अथ राजा धनुः सज्जं कृत्वा शौर्यमिवात्मनः । टङ्कारैः पूरयन् व्योम पातयामास तं भुवि ।। ४९ ॥ यावदेति नृपस्तत्र तं स्वयं हतमीक्षितुम् । तावदैवत भूमिष्ठां लुठद्गी हतां मृगीम् ।। ५० ॥ विषण्णमानसः स्माह हरिश्चन्द्रः कृपापरः । पिम् पिग्मां हरिणीभ्रूणघातपातकलङ्कितम् ॥ ५१॥