________________
प्रथमः सर्गः। तत्रास्थां तीर्थसेवायै कुर्वाणोऽष्टाह्निकोत्सवम् । . इदानीं प्रभुपादान्ते प्रवित्रजिषुरागतः ॥ २७ ॥ अथोवाच बलो राजा किमिदं तीर्थमुत्तमम् । कोऽयं राजा हरिश्चन्द्रः स्वामिन्निति निगद्यताम्॥२८॥ महीश !जम्बूद्वीपेऽस्मिन् क्षेत्रे दक्षिणभारते । अभूत्कुलकरो नाभिराभिमुख्यमिव श्रियाम् ॥२९॥ मरुदेवा प्रिया तस्य स्वच्छा शान्ता पतिव्रता। तयोरात्मभवः श्रीमान् भगवानृषभध्वजः ॥ ३० ॥ तदर्थ पुरुहूतेन कृताऽयोध्या महापुरी । द्वादशयोजनायामा नवयोजनविस्तृता ॥ ३१ ॥ तत्र शक्रावताराख्यं यथार्थ तीर्यमुत्तमम् । युगादिदेवप्रतिमाभासुरं सम्पदा पदम् ॥ ३१ ॥ हरिश्चन्द्रो नृपस्तत्र नाभेयान्वयभूषणम् । नलिनं नीतिभृङ्गीणां कामकुम्भः सदार्थिनाम् ॥३२॥ सुतारा प्रेयसी तस्य च्छायेव तुहिनातेः। वसुभूतिरमात्योऽस्य नयवल्लीघनाघनः ॥ ३३ ॥ अन्येधुर्यामिनीशेषे सुखसुप्तः क्षितीश्वरः। इमं शुश्राव सत्त्वाम्बुजलधि श्लोकमीदृशम् ॥३४॥ धीरैर्वीरैः समर्यादैः सत्त्वं रक्ष्यं विवेकिभिः । समापने निजमाणसंशये मुमहत्यपि ॥ ३५॥ इति श्रुत्वा पठन्ने निद्रां तत्याज भूषतिः । अस्मरद्विस्मयोल्लासात्पौनःपुन्येन मन्त्रवत् ॥ ३६॥ इतश्च तापसः कोऽपि सभीकोऽरिगृहीतवत् । समागादित्युवाचोच्चैर्वाचा सग्रहकण्ठया ॥ ३७॥ त्वयि शासति भूनाथ ! मेदिनीमन्यदेहिनाम् । न भयं वास्तवं किञ्चिद् दृश्यते शशशृङ्गवत् ॥ ३८ ॥