________________
૮
मरिकनाथमहाकाव्ये
यैरेव श्यामलैः स्निग्धैः केशपाशैः प्रशस्यते । तैरेव तूलपूलप्रस्पर्द्धिभिः परिभूयते ।। १४ ।। य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूतव्रणगन्धैः शवायते ।। १५ ।। इत्थं विमृशतो मेऽभूद्वैराग्यं तत्तथा तदा । येन प्रत्येकबुद्धोऽहमभवं कर्मलाघवात् ।। १६ ।। विहरन् वसुधापीठं प्रतिबोधविधित्सया । अत्रागां तव बोधार्थमथोचे बलभूपतिः ।। १७ ।। स्वामिन्! वश्चरितं श्रुत्वा व्यावृत्तो भववासतः । परं क्रमागतां क्षोणीं न क्षमस्त्यक्तुमञ्जसा ॥ १८ ॥ तथापि येन धर्मेण सुकरेण मुनीश्वर ! पवित्रः स्यां नृपत्वेऽपि तं धर्म मद्यमादिश ।। १९ ॥ अथाचार्योक्तसुश्राद्धव्रतानि क्षितिनायकः । प्रपद्य मेने स्वं जन्म कृतकृत्यं निधीनिव ॥ २० ॥ इतश्चैत्य नभोमार्गात कश्विद्विद्याधरो नरः । त्रिश्च प्रदक्षिणीकृत्य मुनीन्द्रं स्म नमस्यति ॥ २१ ॥ तीर्थयात्रिक ! विद्याभृत् ! प्रष्टव्योऽसि, कुतोऽधुना । इत्युक्ते सूरिणावादीदसौ विनयमेदुरः ॥ २२ ॥ नगी पुण्डरीकियां नत्वा पूज्यपदद्वयीम् । व्रतं प्रपित्सु वैताढ्य मेरुनन्दीश्वरादिषु || २३ || तीर्थानि वन्दमानोऽहं कृत्रिमाकृविमाण्यपि । दक्षिणे भारतस्यार्द्धेऽयोध्यायां पुर्यगां प्रभो ! ||२४|| (युग्मम् ) तत्र शक्रावताराख्यं तीर्थं दृष्टं मनोहरम् । हरिश्चन्द्रनरेन्द्रेण सम्मत्येव समुद्धृतम् ।। २५ ।। एकं तादृग्महातीर्थं हरिश्चन्द्रोद्धृतं परम् । एकं सुवर्णमपरं परं परिमलाकुलम् ॥ २६ ॥