________________
२४
मल्लिनाथमहाकान्ये
आत्मानं निर्वसुं ज्ञात्वा यात्यस्तं तेजसा पतिः । तपस्विपाण्डुरच्छायाः प्रसस्रस्तारका अमी।। ९० ॥ इति वैतालिकीमुक्तिं भावयन भवितव्यताम् । जगाम धाम भूमीशोधाम्नां निधिरिवाम्बुधिम् ।।९१॥ राजामित्रद्वयात् ज्ञातवृत्तान्तः सचिवाग्रणीः । हतसर्वस्ववच्छ्न्यो वसुभूतिरचिन्तयत् ।। ९२ ॥ अनेन दम्भिना भूपो दम्भितो गर्भरूपवत् । अविचारितकर्तारो विमुह्यन्ति पदे पदे ॥ ९३ ॥ विधेर्विलसितं हन्त ! विचाराणामगोचरे । सुघट यो विषटयेदघट घटयेदपि ॥ ९४ ॥ विमृश्यैवं महामात्यः सशल्य इव दुःखितः। विलासमण्डपासीनं राजानं प्राणमत्तदा ।। ९५ ।। नत्वोपविष्टः सचिवस्तद् वृत्तं वक्तुमुद्यतम् । देव ! सर्व मयाऽज्ञायि मा वादीरित्यवारयत् ।। ९६ ॥ हरिश्चन्द्रस्ततः प्राह सधीरं नीरदध्वनिः। मा विषाद विदग्धोऽसि सत्त्वं यन्मानिनां धनम् ।।९७॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद्भविष्यति । सति कन्दे न सन्देहो वल्याः पल्लवसम्पदाम् ॥९८।। कण्ठपीठी कुठारेण बाध्यतामस्तु बन्धनम् । न तु जातु प्रतिज्ञातमर्थमुज्झन्ति सात्त्विकाः ॥ ९९ ॥ इति राजवचः श्रुत्वा वसुभूतिर्धियां निधिः। हृदये चिन्तयांचक्रे सत्त्वमत्र विजृम्भते ।। ३०० ॥ सविनेयो मुनिः सोऽथ समागात्कृतशब्दवत् । अयाचत महीपालं स्वर्णलक्षमलक्ष्यधीः ॥ १॥ भाण्डागारिकमादिश्य कोशतः क्रोशतो मुनेः। आनाययत् क्षणादक्षः स्वर्णलक्षं नितीश्वरः ।। २ ॥