________________
शब्दरत्नाकरे सर्जे फेनिले वरिष्ठो रिष्ठोऽपि पिचुमन्दवत् । पिचुमर्दोऽपि निम्बेऽथ कर्पासे पिचुतूलयुक् ॥ १५३ ॥ पिचुस्तूलः पिचव्यश्व, कृतमाले वारग्वधः। . आर्वधारगवधौ च शम्पाकश्च सम्पाकवत् ॥१५४॥ वृषे वृषक-वृषभावाटरूषोऽटरूषकः। अटरुषोऽटरुषक आटरूषो अटाद् रुषः ॥ १५५ ॥ वाशको वाशिका वासा वाशा स्त्रीत्रोः करञ्जवत् । करजोऽपि नक्तमाले रक्तमालस्तथेमकौ ॥ १९६ ॥ काकाचिकः काकचिकस्तद्विशेषे तु पूतिकः । पूतीकोऽपि महावृक्षे स्नुकस्नुट्स्नुहिः स्नुही स्नुहा॥१५७॥ गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् । सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ॥१५८॥ पारिभद्रे तु मन्दारुर्मन्दारो मन्दरोऽपि च । मधुद्रुमे मधूकः स्याद् मधुकश्च मधूलकः ॥ १५९ ॥ मध्वष्ठीलो मधुष्ठीलो मधुश्वापि, पलङ्कषे । गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्व कुभोलुवत् ॥१६०॥ उलूखलं च खलकं कुम्भोलूखलकं तथा। चारे प्रियालः पियालो राजादन-राजातनौ ॥१६॥ सन्नकद्रुः सन्नकोद्रुर्धनुष्यटो धनुष्पटौ । धनुरुदन्तः क्षीरिण्यां क्षीरिका च राजादनः ॥१६२॥ राजातनो राजन्यां च फलाध्यक्षोऽप्यध्यक्षवत् । रथद्रुमे स्यात्तिनिशं तिलिशो नेमि-नेमिनौ ॥१६३॥