________________
चतुर्थः काण्डः। ६५ नेमी ङ्यतोऽपि नारङ्गे नार्यङ्गस्तापसटुमे । - इङ्गदी गुदामङ्गुदः स्याछीपा तु काश्मरी ॥१६॥ कश्मरीवत् काश्मर्या च काश्मीर्यपि च संमता । कम्भारी गम्भारी तुल्ये अम्लीकायां मताम्लिका॥१६५॥ अम्ब्लिका चाम्ब्लिकाऽम्ब्लीका तिन्तिडी तिन्तिली तथा। तिन्तिडीका तिन्तिडिका, दाडिमः शुकवल्लभे॥१६६॥ दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः । लकुचे लिकुचोऽप्युक्तो डहुवाडहुरित्यपि ॥ १६७ ॥ बीजके त्वासनः प्रोक्तोऽसनोऽशनवदाशनः । पाटला पाटलिः स्त्रीत्रोबर्हत्वके भवेद् भुजः ॥१६८॥ भूजों भुर्जः कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिजलोऽपि च ॥ १६९ ॥ निचुलो निचुरो धात्र्यामामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः॥१७०॥ ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुनको नहयाप्तो बिभीतक-बिभेदकौ ॥ १७१ ॥ अक्षभया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतकलत्रय्यां त्रिफली त्रिफला फलम् ॥ १७२ ॥ तृफला, गन्धवृक्षे तु वरणो वरुणस्तथा । भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः ॥१७३॥ सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता ॥ १७४ ॥