________________
चतुर्थः काण्डः ।
न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः । उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला ॥१४२॥ मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः । दन्त्य-तालव्यादिः शालाञ्जनोऽक्षीव आक्षीववत् ॥ १४३॥ पुन्नागे केशरो दन्त्य - तालव्यमध्यः केशवः । बकुले केशरस्तद्वत् केसरः सिंहकेसरः ॥ १४४ ॥ मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः । कुरुण्टक- कुरण्डकौ किंकरातवदीरितः ॥ १४५ ॥ किंकिराटः, पलाशे तु दन्त्य - तालव्यमध्यगः । किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥ १४६॥ तालि - ताडी, देवताडे देवताडी खरागरी । खरागर्यौ समे प्रोक्ते अगरीवद् गिरागरी ॥ १४७॥ मोचायां तु रम्भा रम्भः कदलिः कदलोऽपि च । कन्दलस्त्रिषु वारणवुषा बुषा बुसान्विता ॥१४८॥ हमारे करवीरः कणवीरस्तथा मतः । 'प्रतिहासः प्रतीहासः स्याद् गिरिमल्लिका कुटः ॥ १४९ ॥ कौटजः कुटजः कोटी, तत्फले विन्द्र भद्रतः । यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥ १५० ॥ रथाभ्रपुष्पोऽभ्रपुष्प, कौलौ तु बदरी भवेत् । बंदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कन्धुवत् ॥ १५१ ॥ कर्कन्धूर्षुट्टा घोण्टा च गोपघोण्टातने भवा । नीपे कदम्ब - कलम्बौ शालस्तालव्य - दन्त्यवान् ॥ १५२ ॥
६३