________________
६२
शब्दरत्नाकरे
पत्रं पात्रं पत्रं च छादनं छदनं छदः । सन्तं छदोऽस्त्री चादन्तः, नवेऽस्मिन् किसलं स्मृतम् ॥ १३१ ॥ किसलयं द्वयं दन्त्यं, पुष्पे सुमनसः स्त्रियाम् । भूनि सुमना ऐक्येऽपि प्रसूनं सून सूनके ॥ १३२ ॥ प्रसूतकं प्रसूतं च प्रफुल्लं फुलवत् सुमम् । कुसुमं, कलिकायां तु कलिः स्यात्कोर कोरकौ ॥१३३॥ कुड्मले कुद्मलं तद्वत् कुष्मलं कुमलं तथा । मुकुलं मकुरं प्रोक्तं मुकुरं, बकुलद्रुमे ॥ १३४ ॥ कुलालदण्डे कोरको दर्पणेऽपि च कोशवत् । कोषो द्वौ च कषे दिव्ये रैवये योनिशिम्बयोः ॥ १३५॥ जातीकोशे सिपिधानेऽण्डको ऽपि स्तबके पुनः । गुत्सो गुच्छो गुलुम्बुव गुलुच्छुः सगुलुच्छकः ॥ १३६ ॥ गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री, रसे पुनः । पौ मकरन्दः ख्यातो मकलन्दो मकरन्दवत् ॥१३७॥ प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् । स्फटितं सव्याकोशं च व्याकोषं स्यात् फले पुनः ॥ १३८ ॥ शस्यं तालव्य - दन्त्यादि वानावाने तु शुष्कके | ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९॥ शिम्बा सिम्बायुता शिम्बिः शमी शिमिश्र पिप्पली । पिप्पलः पिप्परी बोधिः स्याद् बोधिद्रुम इत्यपि ॥ १४०॥ स्यादश्वत्थे च प्लक्षे तु पर्कटी नन्त - ङयन्तगः । जी नन्तो जटी ङयन्तो भवेज्जटिरिदन्तः ॥ १४१ ॥