SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थः काण्डः । धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा । धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥ विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वद् महिर्मही । जगतिर्जगत्युर्वरोर्विरूव ग्मा क्ष्मा क्षमा ॥ २ ॥ अवन्यवनिर्धरणी धरणिर्धारया धरा । केलिश्व केलिनी ख्याता महास्थल्यम्बरस्थली ॥ ३ ॥ दीर्घादय ईडेलेराश्च विडीडो डान्तगौ मतौ । अदन्ताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥ इडेले सर्ग - नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते । द्यावाभूम्योस्तु रोदस्य रोदसी रोदसी तथा ॥ ५ ॥ आद्योङयन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः । द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते ॥ ६ ॥ दिवः पृथिव्यौ च क्षारभूम्यामुषरमूषरम् । इरिणवदीरिणं, भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥ मृद् मृत्तिकाऽपि सा शस्ता मृत्सा मृस्त्राऽपि खानिका । लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥ वशिरो वसिरश्वाऽपि सामुद्रलवणे मतौ । सैन्धवे दन्त - तालव्यादिमं सीतशिवं स्मृतम् ॥ ९ ॥ माणिमन्थं माणिबन्धं रौमके, वसुकं वसु ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy