________________
तृतीयः काण्डः। श्वेदनिका श्वेदनश्च कन्दौ स्याद् नापिते क्षुरी ॥३४६॥ क्षौरिको भण्डिवाही च भाण्डिकस्तस्य भाण्डके। क्षुरः खुरो, मायाकारे प्रातिहारिक उच्यते ॥३४७॥ प्रतिहारो, मायायां तु शाम्बरी साम्बरी तथा । इन्द्रजाले तु कुहुकं कुहकं तद्वदाहतम् ॥ ३४८ ॥ विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् । . कौतूहलं, पापद्धौ तु मृगव्यं मृगया मृगः ॥ ३४९ ॥ आच्छोदनं चद्वितीयथद्वितीयकसंयुतम् । आखेटक आखेटश्व, रज्जो तन्त्री च तन्त्रिवत् ॥३५॥ वटारक-बटारौ द्वौ वटस्त्रिषु तु दोरवत् । दवरश्च तन्तुगुणे, दाशो दासश्च धीवरे ॥ ३५१ ॥ दाशी दासी धीवरी स्याच्छिलाजतु च चेट्यपि । . मत्स्यबन्धने बडिशं बलिशं च, वधास्पदे ॥६५२॥ शूना तालव्य-दन्त्यादिः, पामरःप्रामरोऽपि च । क्षुल्लकः खुल्लकस्तबद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥ पाकश्वण्डाल-चाण्डालौ वुक्कसः पुक्कसस्तथा । .. पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् ॥३५४॥ पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते । वरटो वारटोऽप्युक्त इडीडौ, म्लेच्छजातिके ॥ ३५५ ॥ इति श्रीवादीन्द्रश्रीसाधुकीऍपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यश्रीसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनाम
शब्दप्रभेदनाममालायां मानवकाण्डस्तृतीयः ।