________________
४८
शब्दरत्नाकरे
ध्वजो ध्वजी कल्पपाले मद्ये कपिश-कापिशे ॥३३५॥ कापिशायनं माध्वीकं माहींकं च परिश्रुता । .. परिसुद् दन्त्य-तालव्यमध्यातालव्य-दन्त्यभृत् ॥३३६॥ सुरा, मदिरा मदरी मदना मद्य-बीजके। नगहूर्ननहुर्मद्यसन्धाने, भिष-वासवौ ॥३३॥ पानपात्रे तु, तर्षणा ऽनुतर्षों मद्यपाशने । उपदंशश्वावदंशः स्यात् तेजसावर्तनीमुखा ॥३२८॥ मूषा मूषी शाणे शाणा शाणिनिकषवत्कषः । कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी ॥३२९॥ सूत्रिः सूत्री सूचि-सूत्रे द्वे पिप्पलक-पिप्पले। . कर्तनसाधने तर्कुस्तकुंट्यप्रपि च सीवनम् ॥ ३४०n सेवनं च स्यूतौ, स्यूते तु प्रसेवश्च प्रसेवकः। स्योनं स्यात्तन्तुवाये तु तन्त्रवायः कुविन्दवत् ॥३४१॥ . कुपिन्दोऽपि सूत्रवेष्टे त्रसरस्तसरोऽपि च । वानदण्डे वेम वेमा तन्तौ स्यात् सूत्रतन्तुवत् ॥३४२॥ । सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका । पादूः पन्नद्धापि पादाजगुर्वीथी रथी तथा ॥३४३॥ पीठी त्राणं रक्षणं च पदात् वरायतापि च । वरत्रायां नधी वधी वाडी व पि वक्त् ॥३४४॥ पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् । वासी तूलिका वीषी केषिका कान्दविके पुनः॥३४५॥ भक्ष्यकारो भक्ष्यकार आदितालव्य-दन्त्यभृत् । ..