SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । उडू उडुपस्तरपण्ये तु तर आतरः ॥ ३२४ ॥ आतार आतारुरपि, वृद्धयाजीवे तु वार्धुषिः । वार्धुषिक ऋणे धारोऽस्त्र्युद्धारे प्रतिभूः पुनः ॥ ३२५॥ लग्नको लग्नः, षोडशमात्रैः करिष - कार्षकौ । तुला विंशत्या तु भारो भरव शकटीनवत् ॥ ३२६॥ शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके । प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥ ३२७॥ द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता । काकनी काकिणी, कोशद्वये गव्यूतिरुच्यते ॥३२८॥ गव्याव्यूते, गोमति गवीश्वर - गवेश्वरौ । : गोम्याभीरे तु गोपाल-गोपौ स्यातां, कुटुम्बिनि ॥ ३२९ ॥ कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि च । क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥ लाङ्गलदण्डे ईषेशे, प्रोक्ता लाङ्गलपद्धतौ । शीता तालव्य - दन्त्यादिर्नदीभेदेऽपि लाङ्गले ॥ ३३१ ॥ निरीषे तु कुट-कूटौ कुटकं, कुशिके पुनः । कृशिकश्च फलं फालः कुद्दालच कुदालवत् ॥३३२॥ गोदारणे प्रघयणे तोत्रं प्रतोद - तोदने । आबन्धे तु योत्र-योक्रे कोटीशो लोष्ठभेदने ॥ ३३३॥ कोटिशः खलवाल्यां तु मेधिर्मेथिश्व शूद्रके । पद्य - पज्जौ क्षत्र - वैश्याजातौ माहेष्यवद् मतः ॥ ३३४॥ महिष्योऽपि शिल्पिनि तु स्युः कारु- कारि-कारयः । " ४७
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy