________________
शब्दरत्नाकरे
मृकण्डुवद् मृकण्डश्च, हारीतो हारितोऽपि च ॥३१३॥ पक्षिभेदेऽपि, कुमारः कुमारिलसमन्वितः । नास्तिके लौकायतिको लोकायतिक इत्यपि ॥३१४॥ बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ। . आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥३१५॥ ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा। कृषौ प्रमृतमनृतं वाणिज्यं घणिकर्मणि ॥३१६॥ वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः । वणिक् प्रापणिकः प्रोक्त आपराः पणिकस्तथा ॥३१७॥ पनिकः पतिकश्चैव पदिकः, क्रायके पुनः। क्रायिको विक्रायके च क्रयिको विक्रयी तथा ॥३१८॥ मूल्ये वक्रयाऽवक्रयौ मूलद्रव्ये तु नीविवत् । नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च ॥३१९॥ वैमेयोऽपि परदाने व्यवहारे पणं पणः । न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥३२॥ । सत्यङ्कारः सत्याकृतिः, संख्येये तु गणेयवत् । गण्यं, पोते प्रवहणं वहनं वहितं तथा ॥३२१॥ : वहिनं वाहित्थमपि, पोतवाहे नियामकः। निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः ॥३२२॥ : तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद् द्रुणीः। . द्रोणिोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥३२३॥ काष्ठकुद्दालेऽनिरभ्री, प्लवे स्यादुडुवो डुवः।।