________________
चतुर्थः काण्डः ।
५१
वस्तकं स्याद्, विड-विटौ पाक्ये, टङ्कस्तु टङ्कणे ॥१०॥ टङ्कनः पाचनकश्च पाचनस्तुग्धिका पुनः । खज्जिः स्यात् खज्जिका देशे, विशयी विषयी तथा ॥ ११ ॥ विषयः पुंस्त्रियोर्नीवृदुपोपातस्तु वर्तनम् । जाङ्गलो निर्जले देशे जाङ्गलो जड़भूयसि ॥ १२ ॥ नडकीयो नडुलश्च नडांश्र, बहुशर्करे । शर्करा शर्करोऽपिं शर्करावांश्च शार्करः ॥ १३ ॥ सिकता वालुकाप्राये स्याद् सिकतिल - सैकतौ सिकतावान्, साखायः शाखिनेडाहाल - डाहलाः ॥१४॥ डहालाश्वेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः । वाहिका वाह्नि वाह्लीकाः, पाञ्चालाः स्युः पञ्चालवत्॥ १५॥ कुङ्कणः कौङ्कणोऽप्युक्तो द्रविडो द्रमिडोऽपि च । ग्रामे तु वसथः सं-न्यु-प- प्रति - परितः परः ॥ १६ ॥ पल्लि - पल्ल्यौ गृह- गृहसमूह - स्थानकेष्वपि । सीम - सिमौ क्षेत्र - सीम - गोचर भू-हयेष्वपि ॥ १७ ॥ मर्यादा घट आघाटः स्थविः स्थिविश्व सीमया । सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥ मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च संमतः । शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् ॥ १९ ॥ अणुक्षेत्रे चाणवीनमणव्यमपि, भङ्गवत् । भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् ॥ २० ॥
१' उपवर्तनम्, उपावर्तनं चेत्यर्थः ।