________________
शब्दरत्नाकरें
कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९॥ अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् । शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि ॥ २७० ॥ आयुधीयश्वायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् ॥ २७९ ॥ शस्त्रं, चापे धन्व धन्वं पुक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२॥ अटन्यटनिरर्त्यानीं पीडायामपि स्यात्तलम् ।
४२
तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३॥ बाणे. पृषत्कस्तात्कान्तः सायकः सायवत्सरः । शरः शरुः स्वरुर्भल्लो भलिचापि कडम्बयुक् ॥ २७४॥ कलम्ब इव कादम्बो भेर- भेलावमू तथा ।
भेsपि, कर्तरिः पुढे कर्तरी, शरधौ पुनः ॥ २७५॥ भेकेऽपि, तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्गे तु ऋष्टि - रिष्टी नरस्त्रियोः ॥ २७६ ॥ करवालः करपालः करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥ २७७॥ प्रत्याकारे कोश- कोषावावरणे फरं स्फरम् । स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥२७८॥ खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च ॥ २७९ ॥ aaraौ स्यादी इली च करवालिका ।