SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे त्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे । " युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ स्यात्स्मरमन्दिरे । १८२ ॥ योनिर्योनी च, पुंश्चि शेप: शेफश्च सान्तगे । शेप- शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥ १८३॥ लाङ्गूलं शङ्कु लङ्गुलं, मुष्क आण्डाण्डकौ नरि । अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥ जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ । पादग्रन्थौ कुल्फ-गुल्फौ घुटिको घुण्ट- घुण्टकौ ॥१८५॥ घुटः सर्वेऽपि पुंस्त्रगाः, चरणे चलनः क्रमः । क्रमणः पाद-पदौ पात् पत् - पदे अहिरङ्घ्रियुक् ॥ १८६॥ तिलके कालकस्तद्वत् तिलकालक इत्यपि । जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७॥ अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् । मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥ १८८॥ वुक्काग्रमांसाग्रमांसे वृक्कः स्यात्पुंस्त्रियोर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९॥ मस्तकस्नेहे गोदोऽस्त्री करोट शिरसोऽस्थनि । करोटीवत् करोटिश्च भकालं च भगालयुक् ॥ १९०॥ पृष्ठड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नन्तो द्वयोर्माऽऽबन्तः स्त्री रेत्र - रेतसी ॥१९१॥ बल- बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्म त्वक् त्वचं चोचमित्यपि ॥ १९२॥ ३४
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy