________________
तृतीयः काण्डः ।
प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा 1 मध्या, ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥ पुनर्नव - पुनर्भवौ करजे नखरस्त्रिषु । नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥ प्रादेशो ऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः । तालिका - तालौ चपेटचर्पटश्चपटोऽपि च ॥ १७३ ॥ तद्वये योजिते सिंहतलः संहतलस्तथा । तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥ वितस्ति-खड्गमुष्टयोश्च कुब्जिताङ्गुलिके करे । प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ॥ चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् । तिर्यक्प्रसारितबाह्वोर्व्यायामो व्याम व्यामनी ॥ १७६॥ वियामः, पृष्ठवंशे तु रीढको रीढयुग् मतः । पृष्ठ वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥ सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने । कुच कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक् ॥ १७८॥ तुन्दं तुन्दि: कुक्ष- कुक्षी, यक्ति कालेय- कालके । कालखण्डं कालखञ्जं, गुल्मे प्लीहा प्लिहा तथा ॥ १७९॥ नान्तौ प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि । विलग्नावलग्नौ सर्वे पुंक्लीबा, रसनापदे ॥ १८० ॥ कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् । वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥
"
५.
३३