________________
शब्दरत्नाकरे
कालभेदेऽपि भ्रूविकारे भ्र---भृतः कुटिः । भ्रूमध्ये कूर्च - पे कूर्प नके नस्नया नसा ॥ १६० ॥ नासा नस्या नासिका च नाशिका घ्राणमाघया । घा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥ १६१ ॥ ओष्ठप्रान्ते सृक्क नान्तं क्लीबं सृक्कमदन्तकम् । सृक्कणी सृक्कणिन्तेदन्ते सृक्कि नपुंसके ॥ १६२ ॥ इदन्तमेकैर्वद्वन्द्वं कयुग्ममपरैः स्मृतम् । सृक्कशब्देऽथ हन्वग्रसन्धौ स्याचिबुकं चिबुः ॥ १६३॥ दंष्ट्रिकायां दाढिका स्याद् द्राढिका खाने पुनः । रदनो रदग्देश - दशनौ मल्ल-मलकौ ॥ १६४ ॥ जिह्वायां रसना दन्त्य - तालव्यान्तर्गता रसा । रसमातृका रस्ना च रसिका रसनं तथा ॥ १६५ ॥ गले कण्ठः कण्ठी कण्ठं शब्द- समीपयोरपि । अंसे तु स्कन्धः स्वधश्च सान्तं क्लीबमुरोंसयोः ॥ १६६॥ सन्धौ तु जत्रु षण्ढे स्यात् तकार - रेफयोगवत् । प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥ भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् । कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च ॥ १६८ ॥ प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका । हस्ते करः करिहस्तमूले तु मणिबन्धवत् ॥ १६९ ॥ मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा । अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥
३२