________________
तृतीयः काण्डः ।
किलः केलिन जनके बप्पो वप्रश्न तातयुक् । ततो जनयिता तद्वज्जनित्रोऽपि च, मातरि ॥१४९॥ अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता । जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥ १५० ॥ पितरः पितृशब्दश्व, ज्ञातौ स्वः स्वजनस्तथा । बान्धवो बन्धुरात्मीये स्व-स्वकीये, नपुंसके ॥ १५१ ॥ पण्डु पाण्डौ शण्ठ- शण्टौ तृतीयाप्रकृतिस्तथा । तृतीयप्रकृतिर्देहे कलेवरं कडेवरम् ॥ १५२ ॥ तनूः स्यात्तनु-तनुषी घनस्तद्वच भूघनः । गात्रं गात्रं मूर्तिमच्च मूर्तिः स्यात, कुणपे शवः॥१५३॥ शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके । शिरः सान्तं स्मृतं क्कीबे शिरोऽदन्तो मतो नरि ॥ १५४॥ चिकुरश्चिहुरः केशे ललाटस्याऽलके पुनः ।
भ्रमरकः स्याद् भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥ केशन्यासे काकपक्षे शिखण्डक- शिखाण्डिकौ । वस्त्रिषु च्छन्दस्यपि, दान्ते षण्ढे भषद् भसद् ॥१५६॥ आमाशयस्थाने च, जघनेऽपि तुण्डि - तुण्डकौ । घनं घनोत्तमं भाले त्वलीकमलिकं तथा ॥ १५७ ॥ कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् । नेत्रेऽक्ष्यऽक्ष्णं दृशि-दृशे दृग् लोचन - विलोचने ॥ १५८ ॥ कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे । काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
३१