________________
तृतीयः काण्डः। ३५ असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडिन सकटित्रं च, स्नायौ वसलया नसा ॥१९३ ॥ लावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडको । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥ दूषीका काणुकं काणूकमाणूकवदाणुकम् । घ्राणमले शिवाणक-सिङ्घाणी, लालिका पुनः॥१९५।। सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ । वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥१९६॥ नेपथ्ये वेष-वेशौ द्वावुत्सादनमुद्वर्तने । । उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥१९७॥ चर्चाऽपि, मण्डने प्रति-परितः कर्म कथ्यते ॥ मार्यो माजों मृजा मार्जा मार्जना, स्नान आप्लवः॥१९८॥ आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥ वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥ . हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् । .. पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१॥ जातीफलं जातिफलं तद्वत्कोशफलं मतम् । जातीकोशं जातीकोषं, कपूरे स्यात् सिताभ्रकः॥२०२॥ सिताभश्चापि, कस्तूर्या नाभिवद् मृगनाभिजा। मृगनाभिर्मुगमदो मृगः स्याद् मद इत्यपि ॥ २०३ ॥