SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । पाथेये, जङ्घाकरे तु जङ्घाकरिक जाङ्घिकौ । त्वरिते जवी च जवनः सहायेऽभ्यनुतश्वरः ॥ १०६ ॥ अनुगाम्यनुगश्वापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा ॥ १०७ ॥ पत्तौ पदाति-पादातौ पादातिक पदातिकौ । पदकः पदगः पद्गः पादाविक - पदाजिकौ ॥ १०८ ॥ प्रष्ठे सरोऽग्रे ऽग्र- पुर:- परतो गम-गामि-गाः । पुरस्तः, आवेशिकेतु स्तः प्राघूर्णक- प्राणौ ॥१०९॥ अतिथ्योऽतिथिरातिथ्य आपरौ गान्तु-गन्तुकौ । आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥११०॥ ग्रामे भवे तु ग्रामीण ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च, लोके तु जनो जनपदस्तथा ॥ १११ ॥ देवलोके देवविशा देवविद वाऽभिजात के | जात्याभिजौ कुलीनश्च कुल्य - कौलेयकौ समौ ॥ ११२ ॥ महाकुलीन सहितौ माहाकुल- महाकुलौ । गोत्रोऽन्योऽन्ववायश्च संतानः संततिस्तथा ॥ ११३ ॥ स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता ॥ ११४॥ स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । • स्त्र्यलङ्कारे कुट्टुमितं ह्युकारं, कन्यका कनी ॥ ११५ ॥ कुमार्या, मध्यमवयः स्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिश्वोक्ता युवत्याद्यवयः स्त्रियाम् ॥ ११६॥ २७
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy