________________
शब्दरत्नाकरेसमधूकस्तु वरदे स्यात् समर्धक इत्यपि ॥ ९५ ॥ सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि। परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥ आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् । नैमित्तोऽपि च, मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥ लिपिकरो लिविकरोऽक्षरन्यासे लिपिलिविः ।... मषी-मस्यौ मलिनाऽप्सु, कितवे त्रितयं स्मृतम् ॥९॥ धा” धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे । द्यूतेऽथाऽक्षे पाशकः स्यात् प्रासकः शारितः फलम्।।९९॥ फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते । व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥१०॥ मनोजवस्ताततुल्ये मनोजवसकोऽपि च । क्षेमंकरो रिष्टतात्यरिष्टताती तथाऽऽस्तिके ॥ ११ ॥ श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक्। . शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते ॥ १०२ ॥ चत्वारोऽमी पराः कर्णात टिरिटिरि-ष्टिरेष्टिरा। चुरुचुरु-रचुरुचुरा, शिथिलः शिथिरः श्लथे ॥१३॥ स्थित ऊर्ध्वदमश्चोर्यो निर्वकारो वकारवान् । ऊर्ध्वदमस्तद्भवे तु ऊर्दाद् दमिक दामिकौ ॥१०॥ ऊर्ध्वदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥१०५॥ १ वकाररहितस्तत्सहित अर्ध्वः, अर्धबेस्यर्थः ।