________________
तृतीयः काण्डः।
पित्ते पलानिः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥ वलासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः । कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥ अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः। जम-यक्ष्मावदन्तौ द्वौ, क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ॥ क्षवथौ काशः कासोऽपि, खसे पामा तु पामया।। कच्छुः कच्छुः स्त्रियां सर्वे, खवा कण्डूयनं मतम् ॥८७॥ कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह । ईर्मोऽस्त्रियामीर्म नान्तं, गण्डे विस्फोट-स्फोटकौ ॥८॥ पिटकः पिटका तहस्पिटकं च, किलासके। सिध्म-सिध्मे, कुष्ठभेदे द ईश्व दद्रुयुक् ॥ ८९ ॥ दद्भूर्दर्दूश्च, कोठके मण्डलकं च मण्डलम्। हृल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः ॥ ९॥ आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः। शोफ-शोथौ, छर्दने तु छर्दिश्छः प्रच्छर्दिका ॥११॥ वमनं वमि-बमथू, कुरण्डस्त्वण्डवर्धने । कूरण्डोऽपि, प्रमेहे तु मेहोऽपि च, चिकित्सके ॥९२ ॥ आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः। जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥ उपचर्यापि, सत्कृत्यालंकृतस्खकनीदये। कूकुदः कूपदश्वाऽऽपदापदे विपदा विपद् ॥ ९४ ॥ विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दूडाभ-दूडभौ ।