________________
शब्दरत्नाकरेअनासिके विख-विखू विनोऽपि, नतनासिके ॥ ७४ ॥ अबाद् भ्रट-टीट-नाटा नाशायां तन्नतावपि । खरनासे खरणसः खरणाः, खुरसग्नसि ॥ ७५ ॥ खुरणाः स्यात् खुरणसः, श्रोणे पङ्गुः सपगुलः । स्यात् खल्वाटे तु खलति-खलतावल्पकायके ॥७६॥ पृश्नि-पृष्णी गडुले तु न्युब्ज-कुब्जौ, कुहस्तके । कुणि-कूणी, हस्वकरपादे खर्वो निखर्वयुक् ॥७७॥ हस्वशाखे वामनश्च वामा नान्तो, द्विनग्नके । वण्डो दन्त्योष्ठ्यवादिः स्यादल्पमेद्वेऽपि, खञ्जके ॥७॥ खोड-खोरौ च खोटोऽपि, पोगण्डो विकलाङ्गके । अपोगण्डोऽप्यूर्ध्वजानावूर्वज्ञोर्ध्वज्ञको समौ ॥ ७९ ॥ विलजानौ प्रजुः स्यात् प्रज्ञोऽपि, युतजानुके ।। संजु-संज्ञौ च सर्वत्र जञसंयोग उच्यते ॥ ८० ॥ वलियुक्ते वलिनः स्याद् वलिभः, शस्तकेशके । केशवः केशिकः केशी, तुण्डिलो वृद्धनाभिके ॥१॥ तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुको । व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥८२॥ सातिसारेऽतिसारक्यतीसारकी, कफान्विते । श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तहति पिल्लयुक् ॥८३॥ चिल्लरचुल्लोऽपि, मूर्ते तु मूर्छालो मूच्छितोऽपि च । . १ अवभ्रटः, अवटीटः, अवनाट इति ।