________________
तृतीयः काण्डः।
मौष्कुलिौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च॥६॥ लोलोऽपि गर्धनो गृध्नु-गृनौ चेहेह ईहने । कामश्च कामना, धृष्टो धृष्णुः स्याद् धृष्णजा सह॥६५॥ शुभंयुः शुभसंयुक्ते शुभंयश्चाप्यहंकृति । अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ ॥६६॥ कामनः कमनः कम्रः कमरः कमितापि च । कामयिताऽभिक-भीकावन्तर्दुर्विपरो मनाः ॥ ६७ ॥ विचेतस्यभिशस्ते तु स्यादक्षारित-क्षारितौ । तिरस्कारे परीभावः परापर्यभितो भवः॥ ६८ ॥ न्यक्कारः सनिकारः स्यात, जागरूके तु जागरी । जागरिता, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥ जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको, दक्षिणा दक्षिण्यो दक्षिणीयकः ॥ ७० ॥ दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अर्थे प्रतीक्ष्यो निॉपि, पूजिते त्वपचायितः ॥ ७१ ॥ अपचितोऽथाहणायां पूजा पूज्याऽथ पीनके। बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः ॥ ७२ ॥ मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतो, बृहत्कुक्षौ तुन्दी तुन्दिक-तुन्दिलौ ॥७३॥ तुन्दिभोऽप्युदरिकश्वोदरिलोदरिणौ समौ ।।
१ अन्तर्मनाः, दुर्मनाः, विमनाः । २ पराभवः, परिभवः, अभिभवः ।