________________
शब्दरत्नाकरे
सुवासिनी खवासिनी वधूटी वध्वटीति च । चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका ॥११७॥ पत्न्यां सधर्मिणी सहधर्मिणीगृहिणीगृहाः । कलत्रं कडवं दारः पुंसि वा भूम्नि दारया ॥ ११८ ॥ जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्धिः पुरन्ध्यपि । स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९॥ कुलस्त्रियां तु कुलतो वालिका पालिकाऽपि च । कान्तायां प्रेयसी प्रेष्ठा षटकार ठकारभाक् ॥ १२० ॥ प्रिया, कान्ते प्रियः प्रेयान् प्रेष्ठष्ट ठद्वयान्वितः । वरो वरयितोद्वाहे विवाहे यम-यामकौ ॥ १२१ ॥ उपात्, जायापत्योस्तु जम्पती दम्पती स्मृतौ । द्वित्वे, जस्ती दस्यती प्रायो वेदे प्रयोजितौ ॥ १२२ ॥ जित्वरीवाचकौ पूर्वावेकत्वादावुदाहृतौ ।
हरणे तु सुदायः स्याद् दायो युतक-यौतकौ ॥ १२३ ॥ यौतुकः, परगेहस्था स्वायत्ता शिल्पजीविनी । सैरन्ध्री चापि सेरन्ध्यथावरोधनप्रेष्यिका ॥ १२४ ॥ असिक्निका स्यादसिक्नी, दूत्यां दूतिरपि स्मृता । प्राज्ञी प्रज्ञा प्रजानत्यामाचार्यानी नृयोगके ॥ १२५ ॥ आचार्या, मातुलानी च मातुल्यपि तथा मता । उपाध्यायान्युपाध्यायी, क्षत्रियाणी खेतो भवेत् ॥ १२६॥
. २८
१ द्वारः पुंलिङ्गः, बहुवचनान्तः, एकवचनान्तश्चेत्यर्थः । २ धवयोगं विनेत्यर्थः ।
".