________________
द्वितीयः काण्डः। १५ कुटारिका कैटिकाऽवाद्, ह्लादे मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा ॥ १२४ ॥ हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ। - " गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥१२५॥ तैद्विशेषेऽहंपूर्वा-पूर्विका-प्रथमिकाऽग्रिकाः। व्यायामे तु क्लम-क्लमी परिश्रम-श्रमावपि ॥ १२६ ॥ चिन्तायां चिन्तिया ध्यानं ध्याम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षकः ॥१२७॥ चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । ... संभ्रमे त्वरया तूर्णिस्त्वरिस्तर्के वितर्ककः ॥.१२८ ॥ संवेगावेगावूहेहे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च ॥१२९॥ नटे भारत-भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः सभ्रुकुंसकः ॥ १३० ॥ भ्रूकुंसश्च भृकुंसोऽपि, केलीकिलो विदूषके । केलिकिलो वासन्तिक-वसन्तकौ च, हासिनि ॥१३१॥ केलिकिलः कैलिकिलो, विलासिनि जने पुनः । हेलिहिलो हैलिहिलः, आर्ये मारिष-मार्षकौ ॥ १३२ ॥
चेटी-नीचा-सखीह्वाने हण्डे हले हलाव्ययाः। . १. अवकटिकेत्यर्थः । २ गर्वविशेष अहंपूर्वा, अहंपूर्विका, अहंप्रथमिका, अहमग्रिका चेत्यर्थः । ३ जह ईहा च । ४ चेव्याः, मीचायाः सख्याश्च हाने यथाक्रमं हण्डे, हले हला चेति ।