________________
शब्दरत्नाकरे
अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता॥१३३॥ अम्बिकाऽप्यंविका, भट्टारक-भट्टौ तु पूज्यगात् । . नाम्नःप्रयोज्यौ प्रायेण नाट्योक्तौ नाट्यवाचकाः॥१३४॥ इति वादीन्द्रश्रीसाधुकीत्युपाध्यायमिश्रशिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभे...दनाममालायां देवकाण्डो द्वितीयः ॥ २॥
अथ तृतीयः सर्गः। - -
- पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च । मनुष्यो मानुषो मर्यो मर्तोऽपि, बालिशः शिशौ ॥१॥ बालः क्षीरात् कण्ठः पश्च स्तनयः सस्तनन्धयः । कुमार-कुमरौ दह-दहरावथ शैशवे ॥ २॥ बाल्यवद् बालिमा पाकं पाकिमा नो, वयस्यके । युवा युवानस्तरुणस्तलुनश्वाथ यौवनम् ॥ ३ ॥ यौवनिकापि तारुण्ये, स्थविरे तु जरन् जरी। . जरन्तश्च जीन-जीर्णावतिवृद्धे दशम्ययम् ॥ ४ ॥ दशमीस्थोऽथ संस्तान्तः प्राज्ञो ज्ञः प्रज्ञकः कविः । कवी स्त्री कविता काव्यो वैदुषो विदुषस्तथा ॥ ५ ॥ विद्वांश्च शूरि-सूरी तु सूर्येऽपि, बुद्धयुग बुधः । प्रवीणे निष्ण-निष्णातौ नदीष्णः कृतकृत्यकः ॥६॥ १ क्षीरकण्ठः, क्षीरपश्चेत्यर्थः । २ पुंलिङ्गः ।