________________
शब्दरत्नाकरें
अन्तरिक्षमन्तरीक्षं मेघे घन घनाघनौ । ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमन्धमित्यपि ॥ ५४ ॥ गडयित्नुर्गदयित्नुवरितो वाह-वाहनौ । पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥ काली वृष्टयां वर्षणं स्याद्वर्ष, तनिके लवात् । ग्रह- ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥ आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् । ककुभा ककुब् याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥ विदिक् प्रदिक् चापदिशं प्राक् - प्राचीने समे मते । अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥५८॥ = उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि । इन्द्रे मघवा मघवान् मघवन् दल्मि - वल्मिकौ ॥ ५९ ॥ नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः । बिडोजाः स्याद् बिडौजाश्च सन्तौ वृत्रश्च वृत्रहा ॥६०॥ पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः । तालव्यद्वयवानाद्यतालव्यश्व तृतीयकः ॥ ६१ ॥ शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची । शचिर्वासव जयन्तः जयदत्त जयस्तथा ॥ ६२॥ इन्द्रपुत्र्यां ताविषी स्याद् व्रात्यायां च तविष्यपि । इन्द्रहस्तिन्यैरावण ऐरावतः, ऋजौ धनौ ॥ ६३ ॥ इन्द्रस्यर्जुरोहितं स्याद् रोहितं पारिभद्रके ।
१ वासवस्यापत्यं वासविस्तस्मिन् ।