________________
द्वितीयः काण्डः। मार्गशीर्षे मार्ग-सही सहाः सान्तोऽथ माघके । तपाः सान्तो ह्यस्त्रियां स्यात् ,फल्गुनाले तु फाल्गुनः॥४३॥ फल्गुनश्च फाल्गुनिको, मधौ चैत्रः सचैत्रिकः। शुक्रे तु ज्येष्ठा-मूलयोयेष्ठ-ज्यैष्ठौ त्रयोप्यऽमी ॥ ४४ ॥ त्रिकवर्गद्वितीयाप्तषसंयोगाः, शुचौ पुनः। अषाढ आषाढोऽपि स्यात् , नभसि श्रावणः स्मृतः॥४५॥ श्रावणिकोऽथ नभस्ये भाद्र-भाद्रपदौ समौ । प्रौष्ठपदस्त्रिकवर्गद्वितीयाप्तो ह्यथाश्विने ॥ ४६ ॥ अश्वयुज आश्वयुजो, बाहुले कार्तिकस्तथा । - कार्तिकिकः प्रशलौ हेमन्तो नान्तहेमयुक् ॥ ४७ ॥ शैष-शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः । ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ ॥४८॥ प्रावृषि प्रावृषा वर्षा बहुवे वरिषास्तथा । घनात्यये तु शरदा शरच्चाब्दे तु वत्सरः ॥ ४९ ॥ उद्वत्सर-संवत्सर-परिवत्सर-वत्सराः। अनुसंवत्सरो विवत्सरो वत्सोऽपि वर्षवत् ॥ ५० ॥ वरिषः शारदोपेता शरत् संवदनव्ययम् । अव्ययं च; समा स्त्रीत्वे वा. बहुवे च तद्भिदि॥५१॥ इडत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ। .. संवर्तः परिवर्तश्च सांदृष्टिक-सांमृष्टिके ॥ ५२ ॥ तात्कालिकफले प्रोक्ते, आकाशे द्यो-दिवौ धु च।। क्लीबं सन्तं नभश्चापि नभसो नभसं तथा ॥ ५३ ॥