________________
.
द्वितीयः काण्डः। मन्दार-मन्दरौ तद्वद् मन्दारुश्च, पवौ शृणिः ॥ ६४ ॥ सृणिश्व वह्नावप्येतो, भिदिरं भिदुरं भिदुः। .. भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारकः ॥६५॥ धारः शित-शतात् , वज्रोऽस्त्रियां वज्राशनिईयोः। अशनिईयोराशनः स्वार्थे प्रज्ञाद्यणा, शरुः ॥ ६६ ॥ खरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ षण्ढके । व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः॥६७॥ अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् । .. विश्वकर्मापि, खर्वध्वां वा स्त्री भूम्न्यप्सरा मता ॥६८॥ ऊर्वसी दीर्घ-हखादिर्दन्त्य-तालव्यभाक् क्रमात् । । गन्धर्वो गायने दैवे गान्धर्वोऽपि च तद्भिदिः ॥ ६९ ॥ अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः। हुहुईिहखो हूहूश्च द्विदीर्घोऽव्ययमप्यथो ॥ ७० ॥ हाहाहहरित्यखण्डं नामैके, शमने यमः। यमराजो यमराट् च, संयमनी त्र्यकारयुक् ॥ ७१ ॥ शङ्कावश्रपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् । रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥७२॥ त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् कव्यादसंयुतः।
१ नपुंसकलिङ्गे नान्तो व्याधामशब्दः । २ स्त्रीलिङ्गोऽप्सरःशब्दो विकल्पेन भून्नि- बहुवचने मत इत्यर्थः । ३ दीर्घो हूवश्वादिर्यस्य, तथा दन्त्यं तालव्यं च भजते सः, ऊर्वसी, उर्वसी, जर्वशी, उर्वशी, इति चत्वारः शब्दाः । . देवसंवन्धिनीत्यर्थः । ५ अकारत्रययोगवान् संयमनीशब्दो यमपुरीवाचकः । ६ अन्त्यश्वक्षःशब्दः षण्ढो नपुंसको यत्र ते, इति सान्तविशेषणम् ।