________________
मल्लिनाथमहाकाव्येदृष्ट्वा जजल्प भूपालः के यूयं कुत्र वासिनः ॥ ८७ ॥ अथ व्याहृतवानेष रत्नेन्दो ! वेत्सि किं न माम् ? | सोऽहं गन्धारनामाऽस्मि मिलितस्तव यो वने ।।८८॥ त्वत्तः प्राप्तनमस्कारादभूवं लान्तके सुरः। इदानीमवधिज्ञानादागतस्ते विषोद्धृतौ ।। ८९ ॥ नेदं तवोपकारस्य प्रत्युपकारकारणम् । किन्त्वेतल्लवणोदन्वल्लवणप्राभृतोपमम् ।। ९० ॥
अन्यस्मिन्नपि विधुरे स्मत्तव्योऽहं पदातिवत् । इत्युदित्वा सुधाभोजी पुनस्त्रिदिवमासदत् ॥ ९१ बन्दिवृन्देषु सानन्दं पठत्सु विरुदावलीः । आजगाम नृपः सौधं विमानमिव नाकसत् ॥ ९२॥ ततः प्रभृति पद्मायाः प्रेमभिर्भूपतर्मनः । अरञ्जि कम्बल इव लाक्षारगैर्विकस्वरैः ॥ ९३ ।। एवंरूपकथोपेतः सोऽहमस्मि सुधीर्बलः। । यन्मे संसारवैराग्यं तत् सर्व कथयिष्यते ॥ ९४ ॥ तथाऽन्येधुर्युसनाथ इव दन्तीन्द्रपृष्ठगः । चतुरङ्गचमूयुक्तः क्रीडार्थमचलं पथि ।। ९५ ।।। विस्मेरमञ्जरीपुञ्जम गुञ्जन्मधुव्रतैः। पथिकान् परिपृच्छन्तमिव स्वागतमागतान् ॥ ९६ ॥ चतुर्दिगन्तशाखोपशाखाशतसमाकुलम् । सेवितं पक्षिसङ्घातैः सहकारमथैक्षिषि ॥९७॥ (युग्मम) वीक्षमाणस्य तल्लक्ष्मी नेत्रव्यापार एव मे । वृत्तिः शेषेन्द्रियाणां तु सकलापि तिरस्कृता ॥ ९॥ अथागमं महोद्यानं मधुना कृतसन्निधि । यस्मिन् पिकीरवैर्मन्बोध्यते मकरध्वजः ॥ ९९ ॥ लोलप्रवालकलिता यस्मिन् किंकिल्लिवल्लयः।